वास्तविकं चित्रम् अन्यत् एव

वास्तविकं चित्रम् अन्यत् एव
February 27, 2022 Comments Off on वास्तविकं चित्रम् अन्यत् एव Books, History, India Sunil

By Sunil Kumar

From Sambhashana Sandesha- Feb 2022. Editorial on the nationalist historian Dharmapal

प्रतिभावतां ख्याति: लोके सर्वत्र प्रसरति इति तु सहज: विषय: । क्वचित् प्रतिभाहीना: अपि विभिन्नै: कारणै: ख्यातिं प्राप्नुवन्ति । पुन: क्वचित् प्रतिभायां सत्यामपि केचन ख्यातित: वञ्चिता: भवन्ति । येषां विशेषख्याति: न जाता तादृशेषु अन्यतम: अस्ति मान्य: धर्मपालवर्य: । (१९.०२.१९२२ – २४.१०.२००६)

अद्यत्वे इतिहासस्य अङ्गत्वेन वयं भारतविषयकं चित्रणं यत् प्राप्नुम: तत् तु आङ्ग्लजनै: कल्पितम् । वस्तुत: तु भारतस्य चित्रम् अन्यत् एव आसीत् । अयम् अंश: धर्मपालवर्येण सप्रमाणं प्रतिपादित: । स्वातन्त्र्यसङ्ग्रामे भागं गृहीतवान् धर्मपालवर्य: गान्धिवर्यस्य अनुयायी । गान्धिवर्यस्य अपेक्षाया: अनुगुणम् एव स: लेख्यागारादिषु यानि प्रमाणानि उपलभ्यन्ते तानि अध्येतुम् उद्यत: अभवत् । लण्डन्नगरे स्थित्वा तत्रत्येषु लेख्यागारेषु स्थितानि प्रमाणानि सुदीर्घकालं यावत् अधीत्य स: प्रत्यपादयत् यत् आङ्ग्लानाम् आगमनात् पूर्वमेव विज्ञानशिक्षणकृषितन्त्रज्ञानादिक्षेत्रेषु भारतम् उन्नते स्थाने आसीत् इति । आङ्ग्लै: एव यानि विवरणानि सङ्कलितानि तानि एव अवलम्ब्य धर्मपालवर्य: भारतस्य स्वरूपं विवृणोति इत्यत: स्पष्टं यत् तदीये कथने, तेन दत्ते विवरणे वा अवास्तविक: अंश: कोऽपि नास्ति इति ।

आङ्ग्लानाम् आगमनात् पूर्वं शिक्षणक्षेत्रे, चिकित्साक्षेत्रे, विज्ञानतन्त्रज्ञानक्षेत्रे च भारतस्य या श्रेष्ठता आसीत् सा निश्चयेन आश्चर्यं जनयति । पुस्तकेषु भारतविषये यत् अद्यत्वे पठ्यते तस्मात् भिन्नमेव स्वरूपम् आसीत् भारतस्य । य: गरिमा अस्मान् उन्नतकन्धरान् कुर्यात्, तं वयम् इतिहासपुस्तकेषु न पठाम: अद्यापि । भारतीय: इतिहास: भारतीयतादृष्ट्या दृष्ट्वा प्रमाणानि आधृत्य पुनर्लेखनीय: अस्ति ।

एतदस्ति भारतस्य अमृतमहोत्सववर्षं, धर्मपालजन्मशताब्दवर्षं च । अत: धर्मपालवर्येण सङ्कलितानि प्रमाणानि अवलम्ब्य ऋजुदृष्ट्या भारतीयेतिहासस्य अवलोकनम् अध्ययनं मनसि स्थापनं च यदि क्रियेत, धर्मपालवर्यस्य चिन्तनस्य आकलनं यदि क्रियेत, तर्हि तदेव भवेत् धर्मपालवर्याय अर्प्यमाण: वास्तविक: श्रद्धाञ्जलि: ।

 

Tags
About The Author